पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
नीतिशतके

 व्या.-अथाधममध्यमोत्तमवृत्तिमाह - संतप्तायसीति.-- संतप्तायसि सम्यगग्नितप्तायःपिण्डे संस्थितस्य । निक्षिप्तस्येत्यर्थः । पयसो जलस्य नामाऽपि नामधेयमात्रमपि। न श्रूयते मूलतो ध्वस्त- मेव भवतीत्यर्थः - स्वरूपदर्शनं तु किमुवतव्यमिति भावः । तदेव पयः। नलिनीपत्त्रस्थितं पद्मिनीपत्त्रगतं सत्। मुक्ताकारतया मौक्ति- करूपेण। दृश्यते न तु मौक्तिकत्वेनेत्यर्थः। तदेव पयः। अन्तस्सा- गरे सागरान्तराळे - अन्तरित्यव्ययं - या शुक्तिः मुक्तास्फोट: - तस्याः - मध्ये उदरे - पतितं सत्। मौक्तिकं जायते मौक्तिकत्वेन परिणमतीत्यर्थः ‘ज्ञाजनोर्जे 'ति आदेशः - मुक्तैत्र मौक्तिकमिति विग्रहः * विनयादित्वात्स्वार्थे ठक् ; अतः प्रायेण भूम्न । अधममध्य मोत्तमजुषां निकृष्टसाधारणोत्कृष्टाश्रयाणांश्रितवतामेवंविधाः नामा- श्रवणादिरूपा वृत्तयो व्यापारा भवन्तीति यथाक्रममन्वयाद्यथा- संख्यालंकारः। अतः महदाश्रय एवं कर्तव्यः - 'नीचाश्रयो न कर्तव्यः कर्तव्यो महदाश्रय' इति वचनात्। अत्रोत्तममध्यमाधमा इति लोकप्रसिद्धोद्देशक्रमः कविना न विवक्षित इति ज्ञेयम् ॥  शार्दूलविक्रीडितम् ॥

यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कळत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं य-
देतत् त्रयं जगति पुण्यकृतो लभन्ते ।। ६० ।।

 व्या.----अथ सत्पुत्रकलस्त्रवमित्रसंपत्तिः पुण्यकृदधीनेत्याह - य इति.--यः पुत्रस्सुपरितः वाक्यकरणादिसदाचारैः। पितरं ।