पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेऽस्यमयाभिधातुम् ॥४७॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेगोसहस्रप्रदानविधिव्रतवर्णनंनामैकोनषष्टयुत्तर शततमोऽध्यायः ॥ १५९॥४॥ ॥ युधिष्ठिरउवाच ॥ युष्मद्वाक्यामृतमिदंशृण्वानोहंजनार्दनlनतृप्तिमधिगच्छामिजातंकौतूहलंहिमे |॥ १॥गोपतिकिलोविन्दत्रिषुलोकेषुविश्रुतः॥ गोवृषस्यप्रदूनेनत्रैलोक्यमभिनंदति ॥२॥ तद्भोवृषभदानस्यफलंमेकथयाच्युत । ॥श्रीकृष्णउवाच ॥ वृषदानफलंपुण्यशृणुष्वकथयामिते॥३पवित्रंपावनैचैवसर्वदानोत्तमोत्तमम्॥दशाधेनुसमोऽनङ्कानेकश्चैकधुरंधरः॥४॥ दशधेनुप्रदानाद्विसएवैकोविशिष्यते ॥ योदृष्टश्चातिपुष्टांगोह्मरोग:पांडुनंदन ॥ ५ ॥ युवाभद्रःसुशीलश्चसर्वदोषविवर्जितः ॥ धुरंधरःस्थापयतेएकएकुलंमहत् ॥ ६ ॥ त्राताभवतिसंसारेनात्रकार्याविचारणा ॥ अलंकृत्यवृषंशांतंपुण्यकालउपस्थिते ॥ ७ ॥ रौप्यलांगूलसंयुतंब्राह्मणायनिवेदयेत् ॥ मंत्रेणानेनराजेन्द्रतंश्रृणुष्ववदमिते ॥ ८ ॥ धर्मस्त्वंवृषरूपेणजगदानन्दकारकः॥ अष्टमूर्तेरधिष्ठानमर्तःपाहिसनातन ॥९॥ दत्वैवंदक्षिणायुतंप्रणिपत्यविसर्जयेत् ॥ सप्तजन्मकृतंपापंवाङ्मनःकायकर्मणाम् ॥ १० ॥ तत्सविलयंयातिगोदानसुकृतेनच ॥ यानंवृषभसंयुक्तदीप्यमानंसुशोभनम् ॥ ११ ॥ आरुह्यकामगंदिव्यंस्वर्लोकमधिरोहति ॥| यावंतिस्यरोमाणिगोवृषस्यमहीपते ॥ तावद्वर्षसहस्राणिगवांलोकेमीयते ॥ १२॥ गोलोकाद्वतीर्णस्तुइहलोकेद्विजोभवेत् ॥ यज्ञ याजीमहातेजाःसर्वब्राह्मणपूजितः ॥ १३ ॥ यथोक्तेमहाराजकस्यदेयोवृषोत्तमः ॥ तर्दहतेप्रवक्ष्यामिपात्राणपदंनृणाम् ॥ १४ ॥ येक्षांतदांताःश्रुतिपूर्णकर्णाजितेंद्रिया:प्राणिवधानिवृत्ताः॥ प्रतिग्रहेसंकुचितागृहस्थास्तेब्राह्मणास्तारयितुंसमर्थाः ॥ १६॥ ऊर्जस्विनंभर सहंदृढंकंधरंचयच्छंतियेवृषमशेषगुणोपपन्नम् ॥ दत्तेनयद्रवतिगोदशकेनपुण्यंसत्यंभवंतिभुवितत्फलभागिनस्ते ॥ १६ ॥ इति श्रीभविष्यमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादेवृषभदानव्रतविधिवर्णनंनामषष्टयुत्तरशततमोऽध्यायः ॥ १६० ॥ ॥ छ । | ॥ युधिष्ठिरउवाच ॥ ॥ कपिलादानमाहात्म्यंकथयस्वजगत्पते ॥ पुण्यंयत्सर्वदानानांसर्वपातकनाशनम् ॥ १॥ ॥ श्रीकृष्णउवाच ॥ १ दिव्यम्-इ०पा० । २ अरोषः-इ० पा० । ३ ततः-इ०पा० ।४ सुशोभितम्-इ०पा० । ५ तदप्यहं ते वक्ष्यामि-इ० पा०। ६ दृढबंधनम्-इ० पा०।