एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र-१ पा.१ख.४]
[१०३]

वाक्याङ्क्षेति चात्मेति च निरूपयितुमित्यर्थः । अथेोपाधि निरासवदुपचितमप्यात्मरूपं कस्मान्न निरस्यते इत्यत श्रा च । “श्रात्मनश्च प्रत्याख्यातुमशक्यत्वात्” । प्रकाश हि स् र्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविधमस्य, न चाधिष्ठाना भावे विधमेो भवितुमर्चति । नचि जानु रब्बभावे रज्ज्वां भुजङ्ग इति वा धारेति वा (१) विधमेो दृष्टपूर्वः । अपि चात्मनः प्रकाश्स्य भास्सा प्रपञ्चस्य प्रथा । तथा च श्रु तिः । ‘तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभातीति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्याख्यानायेगाद्वेदान्तेभ्यः प्रमाणा न्तरागेचरसर्वपाधिरहितब्रह्मखरूपावगतिसिद्विरित्यर्थः । उ पनिषत्खेवावगत इत्यवधारणमम्ऋष्यमा ण श्राक्षिपति । “नन्वा तमे”ति । सर्वजनीनाच्प्रत्ययविषये चात्मा कर्ती भेोक्ता च संसारी तत्रैव च लेकिकपरीक्षकाणामात्मपदप्रयेगाद्य एव लेकिकाः शब्दास्तएव वैदिकास्तएव च तेषामर्था इ त्यैौपनिषदमप्यात्मपदं तवैव प्रवर्तितुमर्चति नार्थान्तरे त द्विपरीतइत्यर्थः । समाधत्ते । “ना'च्प्रत्ययविषय औपनिषद् पुरुषः । कुतः । “तत्साशित्वेना"च्प्रत्ययविषयेो यः कर्ता का र्यकारणसंघातेोपहितेन जीवात्मा तत्साक्षित्वेन, परमात्मने ऽहंप्रत्ययविषयत्वस्य “प्रत्युक्तत्वात्” । एतदुक्तं भवति । य द्यप्यनेन जीवेनात्मनेति जीवपरमात्मनेोः पारमार्थिकमेक तथापि तस्येोपचितं रूपं जीवः शुद्धं तु रूपं तस्य साशि


(१) ‘वा धारेति वा' इति २ | ४ | नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११०&oldid=134949" इत्यस्माद् प्रतिप्राप्तम्