एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. १ख.४]
[१२१]

न्वाञ्च । चिगुणे च प्रधाने परिणामिनि संभवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरहतिनी क्रियाज्ञानेन स्तः, तथाप्यव्यझेन शक्यात्मना रूपेण संभवत एव । तथा च प्रधानमेव सर्वशं च सर्वशक्ति च, न तु ब्रह्म । खरूप चैतन्यं त्वस्यावृत्तिकमनुपयोगि जीवात्मनामिवाखाकम् । न च खरूपचैतन्ये कर्तृत्व,मकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वशता । भोगापवर्गलशणपुरुषार्थद्वयप्रयुक्तानादि प्रधानपुरुषसंयेोगनिमित्तस्तु मचदहंकारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । द्वष्टं चाचे तनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्सवि बृह्यर्थमचेतनं शीरं प्रवर्तते । ‘तदैशत बङ्गस्यां प्रजायेती त्याद्याश्च श्रुतयेो ऽचेतनेऽपि चेतनवदुपचारात्खकार्येन्मुख त्वमादर्शयन्ति । यथा कूलं पिपतिषतीति ।

यत्प्राये श्रयते यश्च तक्तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमते भातं प्रतीयते ॥

अपि चाङ्गवृद्धाः । ‘यथा (१)ऽग्यप्राये लिखितं दृष्टा वद न्ति भवेद्यमग्रय'इति, तथेदमपिता श्राप ऐक्शन्त’ ‘ततेज ऐशतेत्याद्युपचारप्राये श्रुतम् । तदैशतेत्यैौपचारिकमेव वि शेयम् । अनेन जीवेनात्मना ऽनुप्रविश्य नामरूपे व्याक रणवाणीति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाच । यथा हि भद्रसेना राजार्थकारी राज्ञा भद्रसेनेो ममामे त्युपचर्यते । एवं तत्त्वमसोत्याद्याः श्रुतयेो भाक्ताः संपत्त्यर्था


(१) 'यथा' इति २ । ४ नास्ति । कल्पतरुधृतस्तु यथाऽन्ये'त्येव पाठः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२८&oldid=136469" इत्यस्माद् प्रतिप्राप्तम्