एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ ६ ] "पूर्वात्यरबलोयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवे' दिति। अपि च ये ऽप्यहंकारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् । अहमिहैवास्मि सदने जानान इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात्। उच्चतरगिरिशिखरवर्तिषु महातरुषु भूयिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् । न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतं, नहि तदैवं भवत्यहमिति, गौणत्वे वा न जानामीति । अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्ततइति यत्र प्रयोक्तप्रतिपत्त्रोः संप्रतिपत्तिः स गौणः स च भेदप्रत्ययपुरःसरः । तद्यथा नैयमिकानिहोत्रवचनो ऽग्निहोत्रशब्दः (अ० १ पा० ४) प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि मासमग्निहोत्रं ज़होतोत्यत्र साध्यसादृश्येन गौणः (अ० ७ पा० ३) । माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः । न त्वहंकारस्य मुख्यार्थी निठितगर्भतया (१) देहादिभ्यो भिन्नोडनुभूयते येन परशब्दः शरीरादौ गौणो भवेत् । न चात्यन्तनिरूढनया गौणेपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहात्तिलभवाङ्दे सिद्धएव सार्षपादीनां तेलशब्दवाच्यत्वाभिमानो न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः । तत्सिद्धं गौणत्वमभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिह व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतोति । न च बालस्थविरशरीरभेदेपि सोऽहमित्येकस्यात्मनः प्रतिसंधानाद्देहादिभ्यो भेदेनास्त्यात्मानभव इति वाच्यम् । परोक्षकाणां खल्वियं कथा न लौकिकानाम् । परोक्षका अपि (१) निष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा तस्य भा वस्तना नया ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३&oldid=334346" इत्यस्माद् प्रतिप्राप्तम्