एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २ ] एतदुक्तं भवति । अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरूपयुज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतो सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह । नैसर्गिक इति । स्वाभाविको ऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता। ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वाद्वीजाङ्गुरवन्न परस्पराश्रयत्वमित्यर्थः। स्यादेतत् । अद्वा पूर्वप्रतीतिमात्रमुपयुज्यते आरोपे, न तु प्रतीयमानस्य परमार्थमत्ता। प्रतीतिरेव त्वत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते । प्रकाशमानत्वमेव हि चिदात्मनो ऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्थक्रियाकारिता वा, दैतापत्तेः। सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पने ऽनवस्थापातात् प्रकाशमानतैव सत्ताऽभ्युपेतव्या । तथा च देहादयः प्रकाशमानत्वानासन्तभिचदात्मवद् असत्त्वे वा न प्रकाशमानास्तत् कथं सत्यानृतयोर्मिथुनीभावस्तदभावे वा कस्य कुता भेदाग्रहस्तदसंभवे कुतो ऽध्यास इत्याशयवानाह। आह आक्षेप्ता कोयमध्यासो नाम । क इत्यापेक्षे समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति । उच्यते। स्मृतिरूपः परत्र पूर्वदृष्टावभासः। अवसन्नो ऽवमतो वा भासो ऽवभासः । प्रत्ययान्तरबाधश्चास्यावसादो ऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति। तस्येदमुपव्याख्यानं पूर्वदृष्टेत्यादि। पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः । मिथ्याप्रत्ययश्वारोपविषयारोपणीयस्य मिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुप

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६&oldid=334352" इत्यस्माद् प्रतिप्राप्तम्