एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पृ.१ .२५]
[भामती]
[१५४]

एवास्तु स्तुतिः का चिप्रणाद्या 'वाग्वै गायत्री वाग्वादं सर्वे भूतं गायति च त्रयति चेत्यादि श्रुतिभ्यः । तथा च 'गायत्रो वा इदं सर्वमित्युपक्रमे गायत्र्या एव हृदयादिभि व्यया व्याख्याय च ‘सैषा चतुष्यदा षडविधा गायत्रत्यु- पसंहारो गायत्वामेव समजसे भवति । ब्रह्माणि तु स ईमेतदसमञ्जसमिति यदैतब्र तेति च ब्रह्मशब्दछन्दोवि षय एव, यथैतां ब्रह्मोपनिषदमित्यत्र वेदोपनिषदुच्यते । तस्याङ्गायत्रछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् । एवं प्राप्ते ऽभिधीयते । "न," कुतः, "तथा चैनेर्पणनिगदा' गायत्र्याख्यच्छन्दोद्रेण गायत्रीरूपविकरानुगते ब्रह्मणि चे तर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एत दुक्तं भवति । न गायत्री ब्रह्मणे ऽवच्छेदिका, उत्पलस्येव नखत्वं, येन तदवच्छिन्नमन्यत्र न स्यादवच्छेदविरहात् । किं तु यदेव तव्रह्म सर्वात्मकं सर्वकारणं तत्खरूपेणाशक्योपदे शमिति तद्दिकारगायत्रीद्वारेणेपल च्यते । गायत्र्याः सर्व- छन्दे व्याप्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्म जननीतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः । न चात्रो()पलक्षणाभावेन नेपलक्ष्यं प्रतीयतेनचि कुण्डलेने पलक्षितं कण्ठरूपं कुण्डलवियोगे ऽपि पश्चात्प्रतीयमानमप्र नीयमानं भवति । तद्रुपप्रत्यायनमात्रोपयोगित्वादुपलक्षणाना मनवच्छेदकत्वात् । तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गाय- व्या ब्रतोपलक्ष्यतइत्युक्तं संप्रति तु गायत्रशब्दः संख्यासा- - 76थयनइत्युक्तं


(१)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६१&oldid=137036" इत्यस्माद् प्रतिप्राप्तम्