________________
दिति चेत् । किमतत्कार्यमास्विदस्या ज्ञाप्यं, न तावत्कार्य, मसतस्तत्त्वानुपपत्तेः। नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धः । अनवस्थापाताच्च विज्ञानस्वरूपमेवासतः प्रकाश इति चेत्, कः पुनरेष सदसतोः संबन्धः। असदधीननिरूपणत्वं सतो ज्ञानस्यासता संबन्ध इति चेत् । अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते न च प्रत्ययस्तत्राधत्ते किं चित्। असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथते इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किं चिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति। अत्र ब्रूमः। निस्तत्त्वं चेन्नानुभवगोचरस्तत्किमिदानीं मरीचयापि तोयात्मना सतस्त्वा यदनुभवगोचराः स्युर्न सतत्त्वास्तदात्मनां मरीचीनामसत्त्वात् । विविधं च वस्तूनां तस्त्वं सत्त्वमसन्त्वं च, तत्र पूर्वं स्वतः परं तु परतः। यथाहुः । स्वरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किं चिद्रूपं कैशिरस्कदा च नेति । तत्किं मरोीचिषु तोयनिर्भासप्रत्ययस्तत्वगोचरः । तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । श्रद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वान् अतोयात्मना गृह्णीयात्। तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वा ऽबाध्यः । इन्त तोयाभावात्मनां मरीचीना तोयभावात्मत्वं तावन्न सत् । तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः। नाप्यसत्। वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते भावान्तरमभावोन्यो न कश्चिदनिरूपणादिति वदद्भिः न चारोपितं रूपं वस्त्वन्तरं तद्घि.मरीचयो वा भवेद् गङ्गादिगतं तोयं वा । पूर्वस्मिन् कल्पे