________________
मरीचय इति प्रत्ययः स्यात् न तोयमिति। उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यान्न पुनरिवेति। देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति।न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्त्विति सांप्रतम् । तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधरतात्। तस्मान्न सत्। नापि सदसत्, परस्परविरोधादिति अनिर्वाचमेवारोपणीयं मरीचिषु तोयमास्थेयं तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव। अत एव पूर्वदृष्टमिव। तत्वतस्तु न तोयं न च पूर्वदृष्टं किं त्वनृतमनिर्वाच्यम् । एवं च देहेन्द्रियादिनपञ्चोप्यनिर्वाचो ऽपूर्वोपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यतइति उपपन्नमध्यासलक्षणयोगाद्देहेन्द्रियादिप्रपञ्चबाधनं चौपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीहासपुराणगोचरस्तन्मूलसदविरुद्वन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्वेनैव निर्वाच्योऽबाधितः स्वयंप्रकाशमैवा ऽस्य मत्ता सा च स्वरूपमेव चिदात्मनोन तु तदतिरिक्तं सत्तासामान्यसमवायोर्थक्रियाकारिता वा इति सर्वमवदातम् । स चायमेवंलक्षणकोध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां तङ्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह तं के चिदन्यत्राऽन्यधर्माध्यास इति वदन्ति ॥ अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य, ज्ञानाकारस्येति यावत्, अध्यासोन्यत्र बाह्ये । सौत्रान्तिकनये तावहाधमस्ति वस्तुसत्तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तुसत्तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यं तच्च ज्ञानाकारस्यारोपः । उपपत्तिच यद्याशमनुभवसिंद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गोन्यथात्वं पुनरस्य बलवहाधकप्रत्ययवशावेदं रजतमिति च बाधस्येदंतामाबबाधेनोपपत्तौ न रजतगोचरतोचिता। रजतस्य धर्मिणो