एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा ३ख.१०]
[२०३]

ङ्गिधीधूमसंभिन्न वङ्गिमवगाचते, धूमेयं वङ्गिरिति, किं तु वैयधिकरणेन धूमाद्भिरिति । भवति तु नामधेयसंभिन्ने रूपधेयप्रत्ययेो डित्थेोयमिति । अपि च शब्दानुपायेपि रूप धेयप्रत्यये लिङ्गन्द्रियजन्मनि नामसंभेदे दृष्टः । तस्मान्नाम संभिन्नाः पृथिव्याट्याम्बरान्ता नाम्ना ग्रथिताश्च विङ्कार नामानि चंकारात्मकानि तद्दाप्तत्वात् । तद्यथा शङ्कना सर्वाणि पर्णानि संवणानि (१) एवमेकारेण सर्वा वागि ति श्रुतेः । अत ॐकारात्मकाः पृथिव्यादयेम्बरान्ता इति वर्णा एवाशरं न परमात्मेति प्राप्तम् । एवं प्राप्त ऽभिधी यते ॥ अश्शरं परमात्मैव, न तु वर्णाः । कुतः । अस्बरान्त धृतेः । न खरूवम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्च न्ति, किं तु परमात्मैव । तेषां परमात्मविकारत्वात् । न च नामधेयात्मकं रूपधेयमिति युक्तम् । खरूपभेदादुपायभे दादर्थक्रियाभेदाच । तथाहि । शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्माण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते । रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मका नि चक्षुरादीन्द्रियग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतेो नामसंभेदः । न च डित्थे। यमिति शब्दसामानाधिकरण्य(२)प्रत्ययः । न खलु शब्दा त्मकेोयं (३) पिण्ड इत्यनुभव, किं तु ये नानादेशकाल


(१) संतृणानि-पा० ४ । अयमेव युक्तः ।

(२) शाब्दसमानाधिकरण :-पा० २ ॥ ३ ॥

(३) स्वलु डित्थात्मकोयं- पा० १ | २. ॥ ३ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१०&oldid=139266" इत्यस्माद् प्रतिप्राप्तम्