एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.३६.१०]
[२०५]

त्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवोत्यमिचय ननिषेधानुवादः । तस्माद्यत्किं चिदेतत् ॥

सा च प्रशासनात् ॥ ११ ॥

प्रशासनमाज्ञा चेतनधर्मे नाचेतने प्रधाने वा ऽव्याकृते वा संभवति । न च मुख्यार्थसंभवे कूलं पिपतिषतीतिवङ्गाक्त त्वमचितमिति भाव ॥

अन्यभावव्यावन्तेश्ध ।। १२ ।।

अस्बरान्तविधरणाक्षरस्येश्वराद्यदन्यद्दण वा प्रधानं वा ऽव्याकृतं वा तेषामन्येषां भावे ऽन्यभावस्तमत्यन्तं व्यावर्तय ति श्रुतिः । तद्दाएतदक्षरं गागत्यादिका । अनेनैव सूत्रे एण जीवस्याप्यचरता निषिद्धेत्यत श्राच् । “तथे”ति । नान्य दित्यादिकया चि श्रुत्या ऽऽत्मभेदः प्रतिषिध्यते । तथा चे पाधिभेदभिन्ना जोवा निषिद्धा भवन्धभेदाभिधानादित्यर्थः । इतेोपि न शारीरस्याक्षरशब्दतेत्याच् । “अचक्षुष्क"मिति । अत्रस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीव स्यादशरतां निषेधतीत्यर्थः । तस्माहर्णप्रधानाव्याकृतजीवाना मसंभवात्संभवाञ्च परमात्मनः परमात्मैवाक्षरमिति सिद्धम् ।

ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥

कार्यब्रह्म जनप्राप्तिफलत्वादर्थभेदतः ।
दर्शनध्यानयेाध्यमपरं ब्रह्म गम्यते ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१२&oldid=139394" इत्यस्माद् प्रतिप्राप्तम्