एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २२ ] दात्मा, विषयस्तु ततोऽन्यो युवात्प्रत्ययगोचरो ऽभ्युपेयः । तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्व,मत एवाविषयत्वमात्मनो वक्तव्यं, तथा च नाध्यास इत्यर्थः । परिहरति । “उच्यते । न तावदयमेकान्तेनाविषयः" । कुतः। "अस्मत्प्रत्ययविषयत्वात्" । अयमर्थः। सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादविषयो ऽनंशश्च, तथाप्यनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनःसूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्निोपि वस्तुतो ऽवच्छिन्नवाभिन्नापि भिन्नवाकर्तापि कर्तेवाभोक्तापि भोक्तेवाविषयोप्यस्मत्प्रत्ययविषयत्व जीवभावमापन्नो ऽवभासते। नभत्व घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति। नहि चिदेकरसस्यात्मनश्चिदंशे गृहीते ऽगृहीतं किं चिदस्ति । न खल्वानन्दनित्यत्वविभुत्यादयो ऽस्य चिद्रूपादस्तुतो भिद्यन्ते, येन तद्ग्रहे गृहीरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीताइवाभान्ति । न चात्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विको, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् । बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात्। तस्माच्चिदात्मनः स्वयंप्रकाशस्यैवानवच्छिन्नस्यावच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात् तदध्यासेन जीवभाव इति । तस्य चानिदमिदमात्मनो ऽस्मत्प्रत्ययविषयत्वमुपपद्यते। तथाहि । कर्ता भोक्ता चिदात्मा डहंप्रत्यये प्रत्यवभासते। न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वाभवति । यस्य च बुद्यादेः कार्यकरणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथिसो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशोऽपि बुह्यादिविषयवि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९&oldid=334418" इत्यस्माद् प्रतिप्राप्तम्