एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. १ पा. ४ ८.८]
[२९१]

त्वादियेग आस्थेयःकिं तु तत्कार्यस्य तेजोबन्नस्य रोचित त्वादिकारणउपचरणीयम् । कार्यसारूप्येण वा कारण क ल्पनीयं तदस्माकमपि तुल्यम् । 'अतो वेको जुषमाणे ऽनुशेते जचात्येनां भुक्तभोगामजोन्यइति त्वात्मभेदश्रवणाः त् सांख्यस्मतेरेवात्र मन्त्रवणं प्रत्यभिज्ञानं न त्वव्याकृत प्रक्रियायाः । तस्यात्मैकात्म्याभ्युपगमेनात्मभेदाभावात् । त स्मात्खतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् । तेषां साम्यावस्था अवयवधर्भरिति । अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोचितत्वादयस्तैरिति । "प्रजास्त्रैगुण्यान्विता’ इति । सुखदुःखमोहात्मिकाः । तथाचि । मैत्रदारेषु नर्म दायां मैत्रस्य सुखं तत्कस्य हेतोस्तं प्रति । सत्त्वसमुद्भवात् । तथा च तत्सपत्नीनां दुःखं तत्कस्य हेतोस्ताः प्रति रजःस मुङ्गवात् । तथा चैत्रस्य तामविन्दते मेवे विषादः स क स्य वेतोस्तं प्रति तमसमुद्भवात् । नर्मदा च सर्वे भावा व्याख्याताः । तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् अनुशेतइ ति व्याचष्टे । “तामेवविद्यये"ति । विषयादि शब्दादयः प्रकृतिविकारास्त्रैगुण्येन सुखदुःखमोचात्मान इन्द्रियमनोर्व कारप्रणालिकया बुद्धिसत्त्वमपसंक्रामन्ति । तेन तदुद्विसत्त्वं प्रधानविकारः सुखदुःखमोद्यमकं शब्दादिरूपेण परिणमतं । चितिशक्तिस्वपरिणामिन्यप्रतिसंक्रमापि बुद्धिसत्त्वादात्मने विवेकमबुध्धभाना बुद्धिवृथैव विपर्यासेनाविद्यया बुदिस्थान् सुखादीन् आत्मन्यभिमन्यमाना सुखादिमतीव बभूव (१) ।


(१) सुस्वादिमत भवति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९६&oldid=141997" इत्यस्माद् प्रतिप्राप्तम्