________________
[ २३ ] त्कुरणात् कथं चिदस्मत्प्रत्ययविषयो ऽहंकारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति चाख्यायते। न खलु जीवश्चिदात्मनो भिद्यते। तथा च श्रुति"रनेन जीवनात्मने"ति। तस्माचिदात्मनो ऽव्यतिरेकाज्जीवः स्वयं प्रकाशो ऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियतइत्यहंप्रत्ययालम्बनमुच्यते। न चाध्यासे सति विषयत्वं विषयत्वे चाध्यास इत्यन्योन्याश्रयमिति सांप्रतम् । बीजाङ्कुरवदनादित्वात् पूर्वपूर्वाध्यासतदासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तं नैसर्गिको ऽयं लोकव्यहार' इति भाष्यग्रन्थेन । तस्मात् सुष्ठूक्तं 'न तावदयमेकान्तेनाविषय' इति । जीवो हि चिदात्मतया स्वयंप्रकाशतया विषयोप्यौपाधिकेन रूपेण विषय इति भावः। स्यादेतत् । न वयमपराधीनप्रकाशतया ऽविषयत्वेनाध्यासमपाकुर्मः, किंतु प्रत्यगात्मा न स्वतो नापि परतः प्रथतइत्यविषय इति ब्रूमः। तथा च सर्वथा ऽप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आए । “अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः" । प्रतीच आत्मनः प्रसिद्धि प्रथा तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः, यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति । अवश्यं चिदात्मा ऽपरोक्षो ऽभ्युपेतव्यस्तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तं, श्रुतिश्चात्र भवति ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति । तदेवं परमार्थपरिहारमुक्ता ऽभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह । “न चायमस्ति नियमः पुरोवस्थित एव" अपरोक्ष एव "विषये विषयान्तरमध्यसिंतव्यम्" कस्मादयं न नियम इत्यत आह । “अ*जुरणं, मिश्रणम् ।