एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा .४ ६.११]
[२९५]

चत्वमने नेतरत्र । न च घेउशिग्रहणाग्रहणवद्विकल्पसंभवे, ऽनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठान कथा, विध्यभावात् । तस्मात्कानि चिदेव तत्त्वानव पञ्च प्रत्ये कं पञ्चसंख्यायेगीनि पञ्चविंशतितत्त्वानि भवन्ति । सांख्यैश्च प्रकृत्यादीनि पञ्चविंशति तत्त्वानि स्मर्यन्ते इति तान्येवाने न मन्त्रेणेच्यन्तइति नाशब्दं प्रधानादि । न चाधारत्वेनात्मने ब्यवस्थानात्सामान चाधाराधेयभावस्य विरोधाद् आकाशस्य च व्यतिरेचनात् चयेविंशतिर्जना इति स्यान्न पञ्च पञ्चः जना इति वाच्यम् । सत्यप्याकाशात्मनोर्यतिरेचने मूलप्र कृतिभागैः सत्त्वरजस्तमेभिः पञ्चविंशतिसंख्येपपत्तेः । त था च सत्याकाशात्मभ्युt(१) सप्तविंशतिसंख्यायां पञ्चविं शति तत्त्वानीति स्वसिदान्तव्याकोप इति चेन् । न। मूलप्र कृतित्वमात्रेणै२कीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वे पपत्तेः । चिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधस्तस्मान शाब्दो सांख्यस्तृतिरिति प्राप्ते । मूलप्रकृतिः प्रधानम् । ना सावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तं "भूले"ति । महदहंकारः पञ्चतन्मात्राणि प्रकृतिस्थं विकृतिश्च । तथा हि । महत्तत्वमचंकारस्य तत्त्वान्तरस्य प्रकृतिथूलप्रकृतेस्तु विकृतिः । एवमकारतवं मचते विकृतिः, प्रकृतिश्च त देव तामसं सत् पञ्चतन्मात्राणाम् । तदेव सात्विकं सन् प्रकृतिरेकादशेन्द्रियाणाम् । पञ्चतन्मात्राणि चाहंकारस्य


(१) आमाकाशाभ्याम् । पा० १ ।

(२) प्रकृतिमात्रेणै । पा५ १॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३००&oldid=142000" इत्यस्माद् प्रतिप्राप्तम्