इति समन्वयलक्षणे संगतमिदमधिकरणम् । वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वये जगद्योने न सिध्यति परात्मनि ॥ सदेवे सेम्येदमग्र आसीदित्यादीनां कारणविषयाणामसदा इदमयआसीदित्यादिभिर्वाक्यैः कारणविषयैर्विरोधःकार्यवि षयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः । तथा कानि चिदन्यकर्तृकां जगदुत्पत्तिमाचक्षते वाक्यानि, कानि चित्खयंकर्तुकाम्। सृष्ट्या च तत्कर्षेण तत्कारणतया ब्रह्म लक्षितम् । सृष्टिविप्रतिपत्तै तत्कारणतायां ब्रह्मलश णे () विप्रतिपत्ते सत्यां भवति तक्षय्ये ब्रह्मण्यपि विप्र तिपत्तिः । तस्माद्दाणि समन्वयाभावान्न समन्वयगम्यं ब्रह्म । वेदान्तास्तु कर्मादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपेपयेगिन इति प्राप्तम् । क्रमदीत्या दिग्रहणेनाक्रमे गृह्यते । एवं प्राप्तउच्यते । सर्गक्रमविवादेपि न स स्रष्टरि विद्यते । सतस्वसहचे भतया निराकार्यतया क्क चित् ॥ न तावदस्ति दृष्टिक्रमे विगानं, श्रुतीनामविरोधात् । त याचि । अनेकशिल्पपर्यवदाते देवदत्तः प्रथमं चक्रदण्डादि करोत्यथ (९) तदुपकरणः कुम्भं कुम्भपकरणस्वादरत्युदकम् उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं पिण्डोपकरणस्तु पचति घृतपूर्णे तदस्य देवदत्तस्य सर्वत्रै
(१) ब्रह्मलक्षणेषि-पा० १ ।
(२) चक्रदण्डादकारणमुत्पाद -पा० 3 ।