अत्रैव श्रुतिमुपन्यस्यति । "शुतियैवमिति । पूर्वं देवे न्द्रियायुपाधिकृतं कलुषत्वमात्मन उक्तं, सम्प्रति स्वाभाविक मेव जीवस्य नामरूपप्रपञ्चश्रयत्वचश्चणं कालुष्यं पार्थिवा नामनामिव श्यामत्वं केवलं पाकेनेव ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याच । ‘ क्क चिच्च जीवाश्रयमप”ति । नदी निदर्शनं यथा सेम्येमा नद्य इति । तदेवमाचार्यदेशीयमतद्वयमुक्वात्रापरितुष्यन्नाचार्यमतमाह टू नकारः ।
अवस्थितेरिति काशकृत्स्नः॥२२॥
एतद्याचटे । “अस्यैव परमात्मन” इति । न जीव आत्म नेन्ये नापि तद्विकारः किं त्वत्मैवाविद्योपाधानकल्पिताव छेदः। आकाशइव घटमणिकादिकल्यितावच्छेदो घटाकाशे मणिकाकाशे न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनेपक्रमः परमात्मनैवोपक्रमस्तस्य ततो ऽभेदात् । स्थूलदर्शिलोकप्रतीतिसैौकर्यायैपाधिकेनात्मरूपेणोपक्रमः कृ तः । अत्रैव श्रुतिं प्रमाणयति । ‘तथा चे”ति । अथ वि कारः परमात्मने जीवः कस्मान्न भवत्याकाशादिवदित्याय । "न च तेजप्रभृतीनामिति । नदि यथा तेजप्रभृतीना मात्मविकारत्वं श्रूयते एवं जीवस्येति । आचार्यत्रयमतं विभ जते । “काशकृस्त्रस्याचार्यस्ये”ति । आत्यन्तिके सत्यभेदे कार्यकारणभावाभावात् अनात्यन्तिको ऽभेद आस्थेयस्तथा च कथं चिद्वेदोपति तमास्थाय कार्यकारणभाव इति(१।।
(१) भाव इति कियानपीत्युक्तम् । पा७ १ । २ ।