एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २ ] ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः। सन्तु या प्रत्यक्षादीनि संवृत्त्यापि यथा तथा, शाखाणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह । “शाखाणि चेति" ॥ समाधत्ते । “उच्यते। देहेन्द्रियादिष्वहंममाभिमानहीनस्य” तादात्म्यतद्धर्माध्यासहीनस्य “प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः' । अयमर्थः । प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यं, स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति। न च कूटस्थनित्यश्चिदात्मा ऽपरिणामी स्वतो व्यापारवान्। तस्माव्द्यापारवहयादितादात्म्याध्यासाद् व्यापारवत्तया प्रमाणमधिष्ठातमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति । अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह। “नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति"। व्यवह्रियते ऽनेनेति व्यवहारः, फलं. प्रत्यक्षादिनां प्रमाणानां फलमित्यर्थः। इन्द्रियाणीति, इन्द्रियलिङ्गादीनीति द्रष्टव्यं, दण्डिनो गच्छन्तीतिवत् । एवं हि प्रत्यक्षादीयुपपद्यते। व्यवहार क्रियया च व्यवहार्याक्षेपात्ममानकर्तृकता । अनुपादाय यो व्यवहार इति योजना। किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मात्र प्रवर्तते इत्यत आह । “न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः" प्रमाणानां व्यापार "संभवति"। न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याव्रियन्ते।माभूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति। अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्मा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३३&oldid=334488" इत्यस्माद् प्रतिप्राप्तम्