एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २८ ] शुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्मामान्यात्तेषामपि व्यवहारसमये ऽविद्यावरत्वमनुमेयम्। चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिरविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः । एतदेव विभजते “यथा हि पश्वादय" इति । अत्र च “शब्दादिभिः श्रोत्रादीनां संबन्धे सती"ति प्रत्यक्षं प्रमाणं दर्शितम् । “शब्दादिविज्ञान" इति तत्फलमुक्तम् । “प्रतिकूल" इति चानुमानफलम् । तथाहि । शब्दादिस्वरूपमुपलभ्य सज्जातीयस्य प्रतिकूलतामनुस्मृत्यं तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीतइति । उदाहरति । “यथा दण्डेति" शेषमतिरोहितार्थम्।स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावदिषयाणि । शास्त्रं तु ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खरखामुभिकफलोपभागयोग्यो ऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् । शाखफल प्रयोक्तरि ताणत्वात्तस्मात्स्वयं प्रयोगे स्यादिति । न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पतइति देहाद्यतिरिक्तं कं चिदधिकारिणमाक्षिपति शास्त्रं, तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह । “शास्त्रीये त्विति। तुशब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम्। अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वस्यासंसारित्वमपि तस्याधिकारे ऽनुपयोगात् । प्रत्युतौपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता ऽप्रयोक्ता.कथं वा 5भोक्ता कर्मजनितफलभोगभागी। तस्मादनाद्यविद्यालब्धक-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५&oldid=334496" इत्यस्माद् प्रतिप्राप्तम्