एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-१.१२]
[भामती]
[३४६]

दानान्नात्यन्तारूपपरिमाणमुपादेयं भवितुमर्घति । तस्माद्य वेदमरूपतारतम्(९) विश्राम्यति यतो न दीयः संभवति तच्जगतो मूलकारणं परमाणुः । क्षेदीयन्तरानन्त्ये तु (२मेरुराजसर्षपयोलुख्यपरिमाणत्वप्रसङ्गो ऽनन्तावयवत्वादु भयोः । तस्मात्परममसुतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती() श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधा त् सहस्रसंवत्सरसत्रगतसंवत्सरभृतिवत्कथं चिज्जघन्यत्व वृथा व्याख्येयेत्यधिकं शङ्कमानं प्रति सांख्यदूषणमतिदि शति “रतेनेति सूत्रेण । अस्यर्थः । कारणात्कार्यस्य भेदं तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र निपेत्स्यामः । अवि द्यसमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादु पेशियामहे । तेन वैशेषिकाद्यभिमतस्य तर्कस्य एकावे नाव्यवस्थिते(४) सूत्रमिदं सांख्यदूषणमतिदिशति । यत्र कथं चिद्देदानुसारिण मन्वादिभिः शिष्टैः परिघुचेतस्य सांख्यतर्कस्यैषा गतिस्तत्र परमाण्खादिवादयात्यन्तवेदबा ह्यस्य मन्वाद्युपेक्षितस्य च कैव कथेति । "केन चिदंशे ने”ति । त्रयादयो दि व्युत्पाद्यास्ते च किं चित्सदसद्वा पूर्वप ()न्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्तइति केन चिदंशे नेत्युक्तम् । सुगममन्यत् ।


(१) मल्पपरिमाणतारतम्यं-पा० ४ ।

(२) क्षोदीयोऽर्थान्तराभ्युपगमे तु---पा० ४ ।

(3) मभिवदन्ती-पा० 3 । ४ ।

(४) शुष्कत्वेन व्यवस्थितत्वे स्थिते-पा० ३ । ४ ।

(५) सदस। पूर्वपक्ष-पा० २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५१&oldid=141056" इत्यस्माद् प्रतिप्राप्तम्