एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र२पा १ १४]
[२४८]

नादीनां तत्त्वं स्वदेव, तेन हृदि ज्ञातायां तेषां सर्वेषा मेव तत्त्वं ज्ञानं भवति । तदिदमुक्तं “न चान्यथैकविंशा नेन सर्वविज्ञानं संपद्यत”इति । निदर्शनान्तरद्वयं दर्शय झुपसंहरति । ‘तस्माद्यथा घटकरकाद्याकाशानामिति । ये वि दृष्टनष्टखरूपा न ते वस्तुसन्ते। यथा ऋगत्दृष्णि कोदकादयःतथा च सर्वे विकारजातं, तस्मादवस्तु स न् । तथायि यदस्ति तदस्त्येव, यथा चिदात्मा, नसै कदा चित् क्क चित् कथं चिद्दस्ति, किं तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति । न चैवं विकारजातंतस्य कदा चित् कथं चित् कुत्र चिदवस्थानात् । तथाचि सरस्वभावं चेद्विकारजातं, कथं कदा चिदसत्, असत्खभावं चेत्कथं ओदा चित्सन् । सदसतोरेकवविरोधात् । नचि रूपं क दा चित् क् चित् कथं चिद् गन्धं भवति । अथ तस्य सदसत्वे धर्मे, ते च खकारणाधीनजन्मतया कदा चिदेव भवतः, तत्तदीि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्य चित् । अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मे ऽसत्यम् । नदि धर्मिण्यप्रत्युत्पन्ने तद्दर्भ ऽसत्त्वं प्रत्युत्पन्नमुपपद्यते । अथास्य न धर्मः किं त्वर्थान्तरम सर्वं, किमायातं भावस्य । नहि घटे जाते पटस्य कि चिद्भवति । असवं भावविरोधीति चेद्, न । अकि चिस्करस्य तत्त्वानुपपत्तेः किं चित्करत्वे वा तत्राप्यसत्वेन नदनुयोगसंभवात् । अथास्यासवं नाम किं चिन्न जा यने किं तु स एव न भवति । यथाहु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५४&oldid=141059" इत्यस्माद् प्रतिप्राप्तम्