एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा.१ - ३४]
[३७५]

नश्वर कारणमिति वाच्यम् । विरोधात् । ‘यस्मान्कर्म कारयित्वेशवरः प्राणिनः सुखदुखिनः इजतीति श्रुतेरव गम्यते । तस्मान्न ह्यतीति विरुद्धमभिधीयते । न च वै षम्यमात्रमत्र ब्रमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यं किमतो यथैवं, तस्मादीश्वरस्य सवासनक्लेशापराम र्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोत्रिनषते ऽधो निनीषतइत्येतदपि तज्जातोयपूर्वकर्माभ्यासवशात्प्राणिन (१) इत्येवं नेयम् । यथाहुः ।

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन तथैवाभ्यसते नरः ॥

इत्यभ्युपेत्य च वष्टेतात्विकवमिदमुक्तमनिवीच्या तु सृष्टिरिति न प्रसर्तव्यमपि तथा च मायाकारस्येवाङ्ग साकल्यवैकल्यभेदेन विचित्रान्प्राणिनो दर्शयतो न वैषम्य दोषः सहसा संहरतो वा न नैर्गुण्यमेवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिवीयं विश्वं दर्शयतः संहरतश्च स्ख भावादा लीलया वा न कश्चिद्देष इति स्थिते शङ्कापरि चारपरं क्षत्रम् ।

न कर्मविभगादिति चेन्नन दित्वत ॥ ३५ ॥

शझोत्तरे अ अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते नादित्वादिति सिङ्वदुक्तं तत्साधनायै स्ह्त्रम् ।


(१) प्राणिनामि-पा० १ २ ३ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८०&oldid=141087" इत्यस्माद् प्रतिप्राप्तम्