थकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते, तस्मा त्कृतकत्वमिव नित्यत्वसाधनाय प्रयुक्तं साध्यविरुहेन व्याप्तं विरुद्धम् । एवं समन्वयादिचेतनानधिष्ठितत्वे साध्यइति रचनानुपपत्तेरिति दर्शितम् । यद्युच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वादन्तरङ्ग त्वचेंत न्यमात्रमुपादानानुगतं चेतोः प्रयोजकम् । यथाहुः व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः' । इति । तचाद। “न च हृदादी"ति । स्वभावप्रतिबद्धं चि व्याप्यं व्यापकमवगमयति । स च खभावप्रतिबन्धः शङ्कितसमा रोपितोपाधिनिरासे सति निश्चयते । तन्निश्चयश्चान्वयव्यतिरे कयोरायतते। ते चान्वयव्यतिरेकै न तथोपादानाचैतन्ये यथा चेतनप्रयुक्तत्वेपि परिस्फुटै(९) तदयमत्रान्तरङ्गत्वेनेति भावः । एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणा न्तरविरोधो भवेत् प्रयुत श्रुतिरनुगुणतरात्रेत्याच । “न चैवं सती”ति । चकारेण सुखदुःखादिसमन्वयलक्षणस्य हेतोर सिद्धत्वं समुच्चिनोतीत्याह । ‘अन्वयाद्यनुपपत्तेश्चेति । अन्तराः खल्वमी सुखदुःखमोक्षविषादा बाह्वभ्यश्चन्दनादि भ्यनिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्धशमच्यन्ते। यदि पुनरेतएव सुखदुःखादिखभावा भवेयुस्ततः खरूप त्वाद्धेमन्तेपि चन्दनः सुखः स्यात् । नचि चन्दनः कदा चिदचन्दनस्तथा निदाघेष्वपि . कुडुमपङ्कर सुखो भवेत् ।
(१) त्वेऽतिपरिस्फुट-पा० १ । २ ।