एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२.१०]
[३६३]

वि”ति । यथा चि मुखमवदातमपि मलिनादर्शतलोपाधि कल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुनो मलिनं, न च बिम्बप्रतिबिम्बं वस्तुतो भिद्यते । अथ तस्मिन् प्रतिबि स्ने मलिनादपधानमलिनता पदं लभते। तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा ढपाध्यपनया द्विम्बमेव कल्पनावशात्प्रतिबिम्बं तावदातमिति तत्वमव गच्छति तदास्य तापः प्रशाम्यति न च मलिनं मे मुख मिति । एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्र तिबिम्बकल्पः कल्पितैरेव शब्दादिभिः संपर्कत्तप्यते न तु तवतः परमात्मनोस्ति तापः । यदा तु तत्वमसीति वाक्य श्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोस्य साक्षात्कार उपजायते तदाजीवः शर्वोऽइतत्वखभावमात्मनोनुभवन् नि दृष्टनिखिलसवासनक्लेशजालः केवलः खस्यो भवति न चास्य पुनः संसारभयमस्ति तहेतोरवास्तवत्वेन समूचका कषितत्वात् । सांख्यस्य तु सतस्तमसशक्यसमुच्छेदत्वादि ति । तदिदमुक्तम् । “विकारभेदस्य च वाचारम्भणमा चत्वश्रवणादि"ति । “प्रधानकारणवाद” इति । यथैव प्र धानकारणवादो ब्रह्माकारणवादविरोध्येवं परमाणुकारणवा दोप्यतः सोपि निराकर्तव्यः । एतेन शिष्टापरियचा अपि व्याख्याता इत्यस्य प्रपञ्च आरभ्यते । तत्र वशेषिका ब्र ढाकारणत्वं दूषयांबभूवुः । चेतनं चेदाकाशादीनामुपादानं छि तदारब्धमाकाशादि चेतनं स्यात् । कारणगणक्रमेण कार्ये गुणारम्भी(१) दृष्टो यथा एक्लैस्तन्तुभिरारब्धः पटः


(१) वैशेषिकगुणारम्भो-पा ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९८&oldid=141139" इत्यस्माद् प्रतिप्राप्तम्