एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[त्र-२ पा.२.११]
[३९७]

गणान्तरमारभन्तइत्येतावनैवेष्टसिद्धे न तद्धेत्वनुसरणे खेद नीयं मन इत्यर्थः । अपि च । सत्परिमाणान्तरमाक्रमति नात्उत्पत्तेश्च प्राक् परिमाणान्तरमसदिति कथमाक्रामेन् । न च तत्कारणमाक्रामति । पारिमाण्डव्यस्यापि समान जातीयस्य कारणस्याक्रमणहेतोर्भावेन समानबलतयोभय कार्यानुत्पादप्रसङ्गादित्याशयवानाच्च । “न च परिमाणान्त राक्रान्तत्वमि”ति । न च परिमाणान्तरारम्भे व्याप्तता । पारिमाण्डल्यादीनाम् । न च कारणबहुत्वादीनां संनि धानमसंनिधानं च पारिमाण्डव्यस्येत्याह । “न च परि माणान्तरारम्भे” इति । व्यभिचारान्तरमाह । ‘संयोगा चे"ति । शङ्कते । “द्रव्ये प्रकृत"इति । निराकरोति । “न दृष्टान्तेने”ति । न चास्माकमयमनियमो भवतामपी त्याइ । ‘ह्त्रकारोपी’ति । हृत्रं व्याचष्टे । “यथा प्र त्यक्षाप्रत्यक्षयो"रिति । शेषमतिरोचितार्थम् ॥

उभयथापि न कमतस्तदभावः ॥ १२ ॥

परमाणूनामाद्यस्य कर्मणः कारणाभ्यपगमे ऽनभ्युपगमें वा न कर्मातस्तदभावःतस्य ह्यणुकादिक्रमेण सर्गस्याभावः । अथवा यद्यपुसमवाय्यदृष्टमथ वा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्माभावो ऽनस्तद् भावस्सर्गाभावः । निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठा त्ढत्वमुपरिष्टान्निराकरिष्यते । अथ वा संयोगोत्पल्यर्थं विभा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०२&oldid=141144" इत्यस्माद् प्रतिप्राप्तम्