एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-२ पा.२.१७]
[४२२]

स्थिरपक्षेपि सत्यपि च भक्तरि अधिष्ठातारं चेतनम न्तरेण न संभवति, किमङ्ग पुनः क्षणिकेषु भावेष । भोक्तुर्भागेनापि कदा चिदाक्षिप्येत संघात, स तु भो क्तापि नास्तीति दूरोत्सारितत्वं दर्शयति । “भोक्तृरचिते वि”ति । अपि च बहव उपकार्योपकारकभावेन स्थिताः ()कार्यं जनयन्ति । न च । शणिकपक्षउपकार्योपकार कभावोस्ति, भावस्योपकारानास्पदत्वात्(२) । क्षणस्याभे यत्वादनुपकलोपकृतत्वसंभवात् । कालभेदेन वा तदुपपत्तै क्षणिकत्वव्याघातात्तदिदमाह । ‘आश्रयाश्रयिंशहून्येषु चेति। “अथायमभिप्राय” इति। यदा हि प्रत्ययोपनिबन्धनः प्रती त्य समुत्पादो भवेत्तदा चेतनो ऽधिष्ठाता ऽपेक्षेतापि, न तु प्रत्ययोपनिबन्धनो ऽपि तु वेढपनिबन्धनः । तथा च कृमत धिष्ठात्रा इतुः खभावत एव कार्यसंघातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गस्मिन्पक्षइत्याशयवानाच । “कथं तमेवे”ति । सम्प्रति प्रत्ययोपनिबन्धनं प्रतीत्य समुत्पादमा स्थाय चोदयति। “अथ मन्यसे संघाता एवे’ति । अस्थिरा अपि चि भावाः सदा संवृता एवोदयन्ते व्ययन्ते च। न पु नरितस्ततोवस्थिताः केन चिक्युच्जीक्रियन्ते तथा च कृतमत्र संघन्त्रा चेतनेनेति भावः । “अनाद”विति परस्पराश्रयं निवर्तयति ।तदेतद्दिकस्य दूषयति । “तदापि संघाता


(१) व्यवस्थिताः-पा० २ ।
(२) नाश्रयत्वात्-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२८&oldid=141173" इत्यस्माद् प्रतिप्राप्तम्