एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.२६.२८]
[भामती]
[४४०]

तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति । नापि तत्समूलस्तम्भादयो ऽवयविनः । तेषामभेदे परमा णुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् । समवाय य निराकृत इति । एवं भेदाभेदविकल्पेन जातिगुणक दोनपि प्रत्याचक्षततस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य । विचारासचत्वाद् अप्रतिभासमानसङ्गावे च प्रमाणाभावा न बादशालम्बनाः प्रत्यया इति । अपि च न तावद्दिश नमिन्द्रियवत्रिलोनमर्थं प्रत्यक्षयितुमर्हति । नचि ययेन्द्रि यमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयि तुमर्हति । तत्रापि समानवादनुयोगस्थाानवस्थाप्रसङ्गात् । न चाधारं प्राकच्यलक्षणं फलमाधातुमुत्सहते । अती तानागतेषु तदसंभवात् । नह्यस्ति संभवो ऽप्रत्युत्पन्ने धर्मा धर्मश्चास्य प्रयुत्पन्न इति । तस्माआउशनस्खरूपप्रत्यक्षमेवा र्थप्रत्यशता ऽभ्युपेया । तच्चनाकारं सद् आजानतो भे दाभावात् कथमर्थभेदं व्यवस्थापयेदिति । तत्रेदव्यवस्थाप नायाकारभेदोस्पेषितव्यः । तदुक्तं न चि वित्तिसत्तैव त वेदना युक्ता, तस्याः सर्वत्राविशेषात् तां तु सारूप्यमा विशत् सरूपयत्तद् घटयेदिति । एकत्रयमाकारो ऽनुभूयने स चेद्दिज्ञानस्य नार्थस्ङ्गवे किं चन प्रमाणमस्तोत्याय । “अपि चानुभवमात्रेण साधारणात्मनो ज्ञानस्येति । ‘अ- पि च सद्योपलम्भनियमादि”ति । यद्यन सच (९) नियत


(१) सवैत १ । ३ । पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४५&oldid=141221" इत्यस्माद् प्रतिप्राप्तम्