एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.२.२९]
[भामती]
[४५२]

अप्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं श क्यमनुभवविरोधेनं मदनुत्पादाद्बाधितविषयताप्यनुमानोत्पा दसामग्री , न च कारणाभावे कार्यमुत्पतुमर्हतीत्याशयवा | नाच । "अपि चानुभवविरोधप्रसङ्गादिति ॥

न भव ऽनुपलब्धेः ॥ ३० ॥

यथा लोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थएवोप लब्धेर्भवतो नार्थानपेक्षायां वासनायां वासनाया अप्यर्थ पलब्धधीनत्वदर्शनादित्यर्थः । अपि चाश्रयाभावादपि न लैकिकी वासनोपपद्यते । न च क्षणिकमालयविशनं वासनाधारो भवितुमर्चति । द्वयोर्युगपदुत्पद्यमानयोः सव्य दक्षिणश्टङ्गवदाधाराधेयभावाभावान् । प्रागुत्पन्नस्य चाधेयो पादसमये सतः क्षणिकत्वव्याघात इत्याशयवानाद । “अ- पि च वासना नामेति । शेषमतिरोदितार्थम् ॥

क्षणिकत्वाच्च ॥ ३१ ॥

स्यादेतत् । यदि साकारं विज्ञानं न संभवति बाष्ठ द्यार्थः स्थूलविकल्पेनासंभवी । चन्नैवमर्थशाने सत्वेन नावविचारं न सर्वेते । नाप्यसत्वेना,सतो भासनायोगात् । नोभयत्वेन । विरोधात् सदसतोरेकत्वानुपपत्तेः । नाप्यन् भयत्वेन । एकनिषेधस्येतरविधाननान्तरीयकवान् । तस्या विचारासचत्वमेवास्तु तत्त्वं वह्नाम् । यथा ।

इदं वस्तु बलायातं यद्वदन्ति विपश्चितः ।
यथायथार्थाश्चिन्त्यन्ते विविच्यन्ते तथातथा ॥ इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५७&oldid=141239" इत्यस्माद् प्रतिप्राप्तम्