एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-२३.४४]
[भमती]
[४३८]

संधीय चेशनायां परिश्रुद्धो न कश्चिदीशवरः स्यात्सिद्धा न्तयनिश्च । भगवानेवैको वासुदेवः परमार्थतत्वमित्यभ्यु पगमात् । तस्मात्कल्पान्तरमास्थेयम् । तत्र चोत्पत्यसंभवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्यसंभवेनापाकरो ति । “अथायमभिप्राय’ इति । सुगममन्यत् ।

विप्रतिषेधाच ॥ ४५ ॥

गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्ता पु नरभेदं धृते । ‘आत्मान एवैते भगवन्तो वासुदेवा’ इति । आदिग्रयणेन प्रद्युम्नानिरुद्वयोर्मनोबुंकारलक्षणतयात्मनो भे दमभिधायात्मान एवैतइति तद्विरुद्धाभेदाभिधानमपरं संगृ चतम् । वेदविप्रतिषेधो व्याख्यातः । इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभा व्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥

न वियदश्रुतेः ॥ १ ॥

पूर्वं प्रमाणान्तरविरोधः धृतेर्निराकृतःसंप्रति तत् श्रुती नामेव परस्परविरोधो निराक्रियते । तत्र स्खटिभृतीनां पर स्परविरोधमाच । "वेदान्तेषु तत्रतत्रेति । श्रुतिविप्रतिषे धाच्च परपक्षाणामनपेक्षस्वं ख्यापितं तद्दत्ल्खपक्षस्य श्रुतिवि प्रतिषेधादिति । “तदर्थनिर्मलत्वमर्थाभासविनिवृक्यार्थतश्च प्रतिपादनम् । तस्य फलं स्खपक्षस्य जगतो ब्रह्मकारणत्व स्यानपेशवानिवृत्तिः । इच वि पूर्वपक्षे श्रुतीनां मिथो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७३&oldid=141255" इत्यस्माद् प्रतिप्राप्तम्