घटशरावादीनि । अपेक्षिकमवधारणं न सर्व विषयमिक र्थः । उपपत्त्यन्तरमाद । "न च नभसापी”ति । अपिर भ्युपगमे । यदि सर्वोपेतं तथाप्यदोष इत्यर्थः । "न च । प्रागुरुपत्तेः । जगत इति शेषः । द्वितीयं चोद्यमपाकरो ति । “अत एव च ब्रह्मविशनेनेति । लक्षणान्यत्वाभा वेनाकाशस्य ब्रह्मणोन्यत्वादिति । अपि चाव्यतिरिक्तदे शकालमाकाशं ब्रह्मणा च ब्रह्माकांडैश्च तदभिन्नस्खभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवब्रह्माणि तत्कार्यं च वि ज्ञाते नभो विदितं भवतीत्याह । “अपि च सर्वं कार्य मुत्पद्यमानमिति । एवं सिद्धान्तैकदेशिमते प्राप्तइदमाच ॥
प्रतिज्ञाहानिरव्यतिरेकच्छब्देभ्यः ॥ ५ ॥
ब्रह्मविवर्तात्मतया जगतस्तद्विकारस्य वस्तुतो ब्रह्मणे भेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते नचि जगत्तवं ब्रह्मा णोन्यत् । तस्मादाकाशमपि तद्दिवनतया तद्विकारः सत्त उज्ञानेन ज्ञातं भवति नान्यथा । अविकारत्वे तु ततस्त त्वान्तरं न ब्रह्मणि विदिते विदितं भवति । भिन्नयोर् लक्षणान्यस्याभावेपि देशकालाभेदेपि नान्यतरज्ञानेनान्यत रशनं भवति । नचि औरस्य पूर्णकुम्भे क्षीरे यूयमाणे । सत्यपि पाथोबिन्दषु पाथस्तवप्रतिज्ञातत्वमस्ति विज्ञानं तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञाऽष्टान्तप्र चयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति । तदेवं