संदिदानोप्यसन्दिग्धा विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा तथा च तत्स्वभावः । न च तत्खभावस्य चैतन्यस्याभावस्तस्य नि त्यत्वात् । तस्मादृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादै निवर्तन्ते। न चैतन्यमात्मस्वभाव९) इति सि इम् । तथा च नित्यचैतन्यवादिन्यः श्रुतयो न कथं चित् क्लेशेन व्याख्यातव्या भवन्ति । गन्धादिविषयवृत्युपजने चे न्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥
उत्क्रान्तिगत्यागतीनम् ॥ १९ ॥
यद्यप्यविकृतस्यव परमात्मनो जीवभावस्तथा चानणुपरि माणत्वं, तथाप्युत्क्रान्तिगत्यागतेन धृतेश्च साशादणुप रिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमा धानाभ्यामाह । ‘ननु चे”ति । पूर्वपक्षे गृहाति । “तत्र प्राप्तं तावदि”ति । विभागसंयोगोत्पादै दि वक्रान्त्यादीनां फलं, न च सर्वगतस्य तं स्तः । सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसंभवादिति ॥
स्वात्मना चत्तरयः ॥ २० ॥
उत्क्रमणं चि मरणे निरूढम् । तच्चचलतोपि तत्र स तो देवखाम्यनिवृत्योपपद्यते न तु गत्यागती । तयोश्च जने निरूढयोः कर्टस्थभावयोर्यापिन्यसंभवादिति मध्यमं परिमाणं मद्वत्त्वं शरीरस्यैव, तच्चार्घतपरीक्षायां प्रत्युक्तम् । गत्यागती च परममङति न संभवते। ऽतः पारिशेष्यादणु
(१) स्वभाषामीति-पा० २ ।