द्यामत्येतीति योजना । अनुशयबोजं पूर्वपक्षी प्रकटयति । “ननु सुषुप्तप्रलययोरिति । “सता’ परमात्मना । अनुश यबीजपरिहारः । अत्रोच्यते ॥
पुंस्त्वादिवत्तस्य सतोभिव्यक्तियोगत ॥ ३१ ॥
निगदव्याख्यातमस्य भाष्यम् ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गे ऽन्यतरनियमो वान्यथ ॥ ३२ ॥
स्यादेत । अन्तःकरणेपि सति तस्य नित्यसंनिधानात्क स्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते । अथादृष्टविपाकका दाचित्कत्वात्सामीप्रतिबन्धाप्रतिबन्धाभ्यामन्तकरणस्य नायं प्रसङ्गः । तावसत्येवान्तःकरणे आत्मनो वेन्द्रियाण वास्त, तत्किमन्तर्गबुनान्तःकरणेनेति चोदयति । ‘अथ वान्य तरस्यात्मनः इति । अथ वेति सिद्धान्तं निवर्तयति । सि दान्ती व्रते । "न चात्मन” इति । अवधानं खल्वनुबुभूषा शभूषा वा । न चैते आमनो धर्म, तस्याविक्रियत्वात् । न चेन्द्रियाणामेकैकेन्द्रियव्यतिरेकेप्यन्धादीनां दर्शनात् । न च ते आन्तरत्वेनानुभूयमाने बातें संभवतः । तस्मादस्ति तदन्तरं किमपि यस्य चैते तदन्तःकरणम् । तदिदमुक्तं “यस्यावधाने"ति । अत्रैवाथं श्रुतिं दर्शयति । “तथा चेति ।