एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पाने ३-२६]
[४२३]

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः॥ ३६ ॥

अभ्युच्चयमात्रमेतन्न सम्यगुपपत्तिः । विशनं कर्तुं यज्ञ ननुते सर्वत्र चि बुद्धिः करणरूपा करणत्वेनैव व्यपदि श्यते न कर्तृत्वेन इव तु कर्तृत्वेन तस्या व्यपदेशे विपर्य यः स्यात्तस्मादात्मैव विज्ञानमिति व्यपदिष्टः । तेन कर्ते ति । स्वत्रान्तरमवतारयितुं चोदयति । अत्राच । ‘य- द”ति । प्रज्ञावान्() खतन्त्र इष्टमेवात्मनः संपादयेन्न निष्टमनिष्टसंपत्तिरप्यस्योपलभ्यते, तस्मान्न खतन्त्रस्तथा च न कत्तों तलक्षणत्वात्तस्येत्यर्थः । अस्योत्तरम् ॥

उपलब्धिवदनियमः॥ ३७ ॥

करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरं प्रयुज्यतइत्युतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कारकान्तराण्यपेशतइति । ईदृशं दि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतोस्तीत्युत्सनसंकथः कर्ता स्या त् । तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेयुस्तत्साधनवि भ्रमणानिष्टोपायं व्यापारयन्ननिटं प्रभुयादित्यनियमः कर्तृत्वं चेति न विरोधः विषयप्रकल्पनमात्रप्रयोजनत्वादिति । नित्यचैतन्यखभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्खविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरि


(१) प्रेक्षावान्-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९८&oldid=141405" इत्यस्माद् प्रतिप्राप्तम्