एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-४ सूई]
[भामती]
[५१०]

लपीतरेषु भ्राणादिषु गन्धाद्युपलब्ध्यनुमितसद्भावेषु रूपा दीनुपलभन्ते । तथा बचनादिलक्षणकार्यपश्चकव्यवस्थाको वाक्पाण्यादिलक्षणकर्मेन्द्रियपञ्चकव्यवस्था । नचि जातु मूकादयः सुखपि विचरणाद्यवगनसद्भावेषु पादादिषु बुझी द्रियेषु वा वचनादिमन्तो भवन्ति । एवं कर्मबुद्धीन्द्रियासंभ विन्या संकल्पादिक्रियाव्यवस्थयान्तःकरणव्यवस्थानुमानम् । एकमपि चान्तःकरणमनेकक्रियाकारि भविष्यति, यथा प्र दीप एक पप्रकाशवनविकारस्तेञ्चशोषणबेतुः । तस्मान्ना न्तःकरणभेदः। एकमेव त्वन्तःकरणं मननान्मन इति चाभि मानादहंकार इति चाध्यवसायाहुद्धिरिति चाख्यायते । तृ तिभेदाच्चभिन्नमपि भिन्नमिवोपचर्यते त्रयमिति, तत्वेन त्वेकमेव भेदे प्रमाणाभावात् । तदेवमेकादशानां कार्याणां व्यवस्थानादेकादश प्राणा इति श्रुतिराजसी । तदनुगु णतया स्वितराः श्रुतयो नेतव्याः । तत्रावयुयनुवादेन स प्ताष्टनवदशसंख्याश्रुतयो यथैकं वृणते हैौ वृणते इति नोन् वृणीतइत्येतदानुगुण्यात् । द्वादशत्रयोदशसंख्याश्रुनी तु कथं चिदृत्तिभेदेन भेदं(१) विवक्षित्वापासनादिपरतय नेतव्ये । तस्मादेकादशैव प्राणा नेतरति सिद्दम् । अपि च शीर्षण्यानां प्राणानां यत्सप्तत्वाभिधानं तदपि चतुष्वैव व्य वस्थापनोयम्, प्रमाणान्तरविरोधात् । न खलु हे चक्षुषा, रूपोपलब्धिलक्षणस्य कार्यस्याभेदात् । पिडितैकचक्षुषस्तु न तादृश रूपोपलब्धिर्भवति यादृशी समग्रचक्षुष, तस्मादेक


(१) भेदेनाभेदपि भेदं-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१५&oldid=141522" इत्यस्माद् प्रतिप्राप्तम्