सभव्यापत्तिरुपपत्तेः ॥२२॥
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुभूतवेत्यादेः स्फुटतरतादात्म्या वगमाद् यथेतमाकाशमित्येतदपि तादात्म्यएवावतिष्ठते । न चान्यस्यान्यभावानुपपत्तिः । मनुष्यशरीरस्य नन्दिकेश्वर स्य देवदेचरूपपरिणामस्मरणादेव देवस्य च नहुषस्य तिर्यत्रमरणा रत् । तस्मान्मुख्यार्थपरित्यागेन न गैौण वृत्ति राश्रयणीया । गैौण्यां च वृत्तैौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः संभवात् । यथाहुः । ‘चच्यमाणगणैर्योगादृत्तेरिष्टा तु गौणता । इति । एवं प्राप्ते ब्रमः।“साभाव्यापत्तिः” । समानो भावो रूपं येषां ते भावस्ते ष भावः साभाव्यं सारूप्यं सादृश्य मिति यावत् । कुनः । उपपत्तेः । एतदेव व्यतिरेकमुखेन व्याचष्टे । नन्यस्यान्यभाव उपपद्यते”। युक्तमेसद्यदेव शरीरमजगरभावेन परिणमते देवदेद्वस्मये ऽजगरशरीर स्याभावात् । यदि तु देवाजगरशरीरे समसमये स्यातां । न देवशरीरमजगरशरीरं शिल्पिशनेनापि क्रियते । नदि दधिपयसी समसमये परस्परात्मनी शक्ये संपादयितुं, तथापि यक्ष्मशरोराकाशयोर्युगपद्भावान्न परस्परात्मस्वं भवितुमर्चति । एवं वाय्वदिक्ष्वपि योज्यं, तथा च तद्भाव स्तत्सादृश्येनैपचारिको व्याख्येयः । नन्वाकाशभावेन संयो गमात्रं उच्यतां किं सादृश्येनेत्यत आछ । "विभुषाच्चा कानेति ।