विरोधाभावः । नापि पूर्वोत्तरयोर्बलवदबलवत्वनिर्णयः । द्वयोरपि खगोचरचारितया समानत्वेन विनिगमनातोर भावान् । तस्मादप्यवश्यमविरोधो व्यवस्थापनयः । तसिइ मेतत् । विवादास्पदं प्रत्ययाः सम्यञ्चः प्रत्ययत्वाज्जायत म्भादिप्रत्ययवदिति । इममर्थं श्रुतिरपि दर्शयति । ‘अथ रथान् रथयोगान् पथः ऋञ्जते’ति । न च न तत्र रथा न रथयोगा न पन्थानो भवन्तीति विरोधादुपचरितार्था खजतइति श्रुतिव्ययेया । वृजनइति द् िश्रुतेः, बहुश्रु तिसंवादात्प्रमाणान्तरसंवादाच्च । बलोयस्वेन तदनुगुणतया न तत्र रया इत्यस्या भाक्तवेन व्याख्यानात् । जाग्रदव स्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति । अत एव कर्वे श्रुतिः शाखान्तरभृतिरुदारु । प्राज्ञकर्तृकवा चास्य पारमार्थिकत्वं वियदादिसर्गवत् । न च जीवकर्ट कत्वान्न प्राज्ञकर्तृकत्वमिति सांप्रतम् । अन्यत्र धर्मादन्य नाधर्मादिति प्राज्ञस्यैव प्रकृतत्वाज्जीवकर्टकवेपि च प्रा ज्ञादभेदेन जीवस्य प्राज्ञत्वात् । अपि च जाग्रत्प्रत्ययसंवा दवन्तोपि स्खनप्रत्ययाः के चिदृश्यन्ते । तद्यथा । खप्ने । एलाम्बरधरः श्र्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याच । प्रियव्रतः पञ्चमे ऽहनि प्रातरेवोर्वराप्रायभूमिदा नेन नरपतिस्वां मानयिष्यतीति, स च जाग्रत्तथा ऽऽत्म न मानमनुभूय स्खश्प्रत्ययं सत्यमभिमन्यते । तस्मात्संध्यै । पारमार्थिकी स्वधिरिति प्राप्ने, उच्यते ।
पृष्ठम्:भामती.djvu/५४९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ २.]
[भामती]
[५४४]