एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. ३ पा-२३.७]
[५५२]

वस्यासति जाग्रतखनदशारूपे ऽपवादे सुषुप्तावस्थायां ना न्यथयितुं शक्यमित्यर्थः । अपि च येपि स्थानविकल्पमा स्थिषप्त तैरपि विशेषविज्ञानोपशमलक्षण सुषप्त्यवस्था कर्तव्या । न चेयमात्मतदास्यं विना नाद्यदिषु पर मात्मव्यतिरिक्तेषु स्थानेषुपपद्यते । तत्र दि स्थितोयं जीव आत्मव्यतिरेकाभिमानी समवश्यं विशेषज्ञानवान् भवेत् । तथादि श्रुतिः । ‘यत्र वान्यदिव स्यात्तत्रान्योन्यत्पश्येदिति । आत्मस्थानत्वे त्वदोषः । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्दिजानयादिति श्रुतेः । तस्माद्यात्मस्थानत्वस्य द्वारं नाद्यदीत्याय । ‘अपि च स्थानविकल्पाभ्युपगमेणेति । अत्र चोदयति । "ननु भेदविषयस्यापी’ति । भिद्यत इति भेदः। भिद्यमानस्यापि विषयस्येत्यर्थः । परिहरति । “बाढमेवं स्यादिति । न तावज्जीवस्यास्ति खनःपरिछेदतस्य ब्रह्मा मत्वेन विभुत्वात् । औपाधिके तु परिच्छेदे यत्रोपाधिरसं निक्षिप्तस्तन्मात्रं न जानीयान्न तु सर्वम् । नह्यसंनिधा नात् सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद । त स्मात्सर्वविशेषविज्ञानप्रत्यस्तमय सुषुप्तिं प्रसाधयत तदस्य सर्वोपाध्यपसंदरो वक्तव्यः । तथा च सिद्दमस्य तदा ऽ ह्मात्मत्वमित्यर्थः । गुणप्रधानभावेन समच्चयो न समप्रधान तयाग्नेयादिवदिति वदन् विकरूपमप्यपाकरोति । “न च वयमिवेति । स्वाध्यायाध्ययनविध्यापादिनपुरुषार्थत्वस्य वेद राशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् । न च सुषुप्तावस्था।याँ जोवस्य स्वरूपेण नाद्यादिस्थानत्वप्रतिपा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५८&oldid=141570" इत्यस्माद् प्रतिप्राप्तम्