एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ- ३ पा. २ सू.२२]
[भामती]
[५४५]

न्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्व भाड् श्रुतिः । अस्तीत्येवोपलब्धव्य इति । चोपासनाविधा नवनेयं, न वस्लिधमेवास्य तत्त्वम् । तत्प्रशंसार्थं चास झ्वज्ञाननिन्दा । यच्चान्यत्र ब्रह्मखरूपप्रतिपादनं तदपि भू तमर्तरूपप्रतिपादनवन्निषेधार्थमसन्निहितोपि च तत्र नि षेधो योग्यत्वात् संभनत्स्यते । यथाहुः।

‘‘येन यस्याभिसंबन्धो दूरस्थस्यापि तेन सः ' । इति ।

तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पशः। अथ वा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वाद्भद्भ णस्तु वानसागोचरतया (१) सकलप्रमाणुवंरचत् कतर स्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादि व्याकोपप्रसङ्गाद् ब्रह्मप्रतिषेधे त्वव्यकोपाद्वह्नौव प्रतिषेधेन संबध्यते योग्यत्वान्न प्रपञ्चस्तदैपरीत्या,ीया तु तदन्यन्ता भावसूचनायेति मध्यमः पशुः । तत्र प्रथमं पशं निराक रोति । "न तावदुभयप्रतिषेध उपपद्यते हन्यवादप्रसङ्गा दि”ति । अयमभिसंधिः । उपाधयो ह्यमो पुथिव्यादयो ऽविद्याकल्पिता ने त शोणकर्कादय इव विशेषा अश्वघस्य। न चोपाधिविगमे उपवितस्याभावो ऽप्रतीतिर्वा नह्यपा धीनां दर्पणमणिकृपाणदीनामपगमे मुखस्याभावो ऽप्र तीति । तस्मादुपाधिनिषेधेपि नोपहतस्य शशविषाण यमानता प्रत्ययो वा । न चैतीति सन्निधानाविशेषात् र्वस्य प्रतिषेध्यत्वमिति युक्तम् । नचि भावमनुपाश्रित्य प्र


(१) स्ववाङ्मनसगोचरतया। -पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६९&oldid=141582" इत्यस्माद् प्रतिप्राप्तम्