एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ब्र. ३ पा-२ झ.४१]
[भामती]
[५७८]

केवलं कर्म वा ऽपूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्र तइति दृष्टविरुद्धम् । यथा विनष्टं कर्म न फलं प्रत इति कस्यते दृष्टविरोधादेवमिदापोति । तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रक्षतइत्यपि दृष्टविरुइ म् । न वि राजपूजात्मकमाराधनं राजानमप्रसाद्य फल य कल्पते । तस्मादृष्टानुगुण्याय यागादिभिरपि देवताप्र सत्तिरुत्पाद्यते । तथा च देवताप्रसादादेव स्थायिनः फलो त्पत्तेरुपपत्तेः कृतमपूर्वेण । एवमश्भेनापि कर्मणा देवता विरोधनं श्रुतिस्ठतिप्रसिद्दम् । ततः स्थायिनो ऽनिष्टफलप्र सवः । न च शभाशएभकारिणां तदनुरूपं फलं प्रसवाना देवता वेषपक्षपातवतीति यज्यते । नचि राजा साधुका रिणमनुझन्निय्क्षन् वा पापकारिणं भवति इष्टो रक्तो वा तद्वदलैकिकोपीश्वरः। यथा च परमापूर्वं कर्तव्ये उत्प यपूर्वाणामङ्गापूर्वाणां चोपयोगः । एवं प्रधानाराधने ऽङ्गा राधनानामुत्पत्याराधनानां चोपयोगः । स्वाम्याराधनइव तदमात्यतप्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभि निवेशात् । तस्मादृष्टाविरोधेन देवताराधनात्फलं न त्वपू वत्कर्मणो वा केवलाद्विरोधनो हेतुव्यपदेशस्य औलः स्या तैश्च व्याख्यातः । ये पुनरन्तर्यामिव्यापाराया फलोत्पाद नाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारी यमधिकरणं दूषयांबभूवुः । तेभ्यो व्यावहारिक्यामोशित्र शितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥

इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८३&oldid=141618" इत्यस्माद् प्रतिप्राप्तम्