च तदुपलक्षणथं वाजिपदं विश्वदेवोपचितामेव देवतां मुपलक्षयतीति न शब्दान्तराद्देवताभेदस्ततश्वामितासंबन्धो पजीवनेन विश्वेभ्यो । वाजिनं विधोयमानं नामिशया बाध्यते । किं तु तया सच समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्व्ययक्तमेकं कर्म विधीयतइति प्राप्ते । उच्यते। स्यादेतदेवं यदि वैश्वदेवेति तद्वितश्रुत्यामि नोच्येत । तद्धितस्य त्वस्येति सर्वनामार्थं स्मरणात् सन्निहितस्य च वि शेषस्य सर्वनामार्थत्वात् तत्रैव तहितस्यापि वृत्तिः । न तु विश्वेषु देवेषु न तत्संबन्धेनापि तत्संबन्धिमात्रे । नन्वेवं सति कस्मादैश्वदेवशब्दमात्रा१)देव नामिक्षां प्रतीमः कि मिति चामिक्षापदमपेक्षामहे । तद्वितन्तस्य पदस्याभिधाना पर्यवसानान प्रतीमस्तत्पर्यवसानाय चापेशामधे । अवसिता भिधानं चि पदं । समर्थमर्थधियमाधातुमिदं तु संनिहित विशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षा पदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रस ङ्गः । कुतो वा तत्रानपेक्षा । अतश्च सत्यामपि पदान्तरा प्रेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभा विपदावगम्यत्वात् औतं बलीयश्च । यत्त पर्यवसिताभि धानपदाभिवितपदार्थावगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्वितश्रुत्यवगतामिक्षालक्षणगुणावरोधात् पूर्व कर्मसंयोगिवाजिनद्रव्यं ससंबन्धि पूर्वकाढू भिनत्ति । एवं च सति नित्यवदवगतानपेशसाधनभावामिशा न वाजिनद्भ
(१) शब्दश्रवणमात्रादिति-पा० १ । २ ।