चिदीशते । तस्मात्खरससिद्धाप्राप्तकर्मविधिपरत्वात् कर्म प्ययमभ्यासो. भावनानुबन्धभूतानि भिन्दानो भावनां भिन त्ति यथा तथा शाखान्तरविंदिता अपि विद्याः शाखान्त रविञ्चिताभ्यो विद्याभ्योऽभ्यासो भेत्स्यतीति । अशक्तेश्च । न वृकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंदर्दू श कोति सर्ववेदान्ताध्ययनासामथ्र्यादनधीतार्थोपसंदरे ऽध्यय नविधानवैयर्थाप्रसङ्गात् । प्रतिशाखं भेदे ढपासनानां नायं दोषः । समाप्तिभेदाच्च(?) । केषां चित् शाखिनामेंकारसा बाल्यकथने समाप्तिः । केषां चिदन्यत्र तमादप्युपासना भेदः । अन्यार्थदर्शनादपि भेदः । तथाचि । नैतदचीर्णव्रतो ऽधीतइति अचोर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः । क चिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते । तस्मादुपासना भेद इति । अत्र सिद्धान्तमाद । सर्ववेदान्तप्रत्ययं चोदना द्यविशेषात् । तद्याचष्टे । सर्व वेदान्तप्रत्ययानि सर्ववेदान्त प्रमाणानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति । यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्त रेल्वपत्यर्थः । चोदनाद्यविशेषात् आदिशब्देन संयोगरू पाख्याः संगृह्यन्ते । अत्र च चोद्यतइति चोदना पुरुषप्रय त्नः । स च पुरुषस्य व्यापारः । तत्र खल्षयं क्षेमाद्धि त्वर्थावच्छिन्ने प्रवर्तते । तस्य देवतोद्देशेन त्यागस्यासेचना दिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमि द्वापि प्राखज्येष्ठत्वश्रेष्ठन्ववेदनविषयः पुरुषप्रयत्नः स एव
(१) भेदाच भेद इति-पा० १ ।