एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.३.पा.३.ख.४]
[५८६]

रुषेयः समाख्याः काठकादिप्रवचनयोगात्तास शाखानां न दृपासनानाम् । नीताः कठादिभिः प्रोक्ताः । न च कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते । न च क ठप्रोक्ततानिमित्तमात्रेण शून्ये प्रवृत्तं तद्योगाच्च कथं चिल्लक्षणयोपासनास प्रवृत्तैौ संभवन्यामुपासनाभिधानम यासां शक्यं कल्पयितुम् । न च तद्वेदाभेदं ज्ञानभेदाभेद प्रयोजकै मा भूद्यथाखमासामभेदाज्ज्ञानानामेकशाखाग तानामैक्यम् । कठादिपुरुषप्रवचननिमित्तायैताः समाख्याः१) कठादिभ्यः प्राक् नासन्निति तन्निबन्धनो ज्ञानभेदो नासी दिदानों चास्तीति दुर्घटमापद्यत । तस्मान्न समाख्यातो भेदः । अभ्यासोपि नात्र भेदको युक्तं यदेकशाखागतो यजदभ्यासः समिदादीनां भेदक इति तत्र चि विधित्व मैौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च (२) कुष्येयाताम् । शाखान्तरे वध्येदपुरुषभेदादेकत्वेपि नैसर्गिक विधित्वव्या कोप इति । अशक्तिरपि न भेदचेतुः स्खध्यायो ऽध्येत व्य इति खशाखायामध्ययननियमः । ततश्च शखन्तरीया नर्थानन्येभ्यस्तद्विधेभ्यो ऽधिगम्योपसंहरिष्यति । समाप्ति चैकस्मिन्नपि तत्संबन्धिनि समाप्तं तस्य व्यपदिश्यते । यथा ऽध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्तिं व्यपदिशन्ति ज्यो तिष्टोमः समाप्त इति । तस्मात्समाप्तिभेदोपि न स।धन मुपासनाभेदस्य । तदेवमसति बाधके चोदनाद्यविशेषा त्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ।


(१) समाख्याइति–पा १ । २ ।
(२) नान्यपे(त-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९२&oldid=141627" इत्यस्माद् प्रतिप्राप्तम्