एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा-३ ६.७]
[भामती]
[५६४]

वतावरुते हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्त रमेव गोचरयेत् । अपि च प्राप्ते पूर्वस्मिन्कर्मणि दभ्रस्त घडुलानां पयसस्तण्डुलानी चेन्द्रादिदेवतासम्बन्धञ्च विधात व्यः । चरुत्वं चात्र विचितं नास्तीति तदपि विधातव्यम् । तथानप्ते कर्मणि अनेकगुणविधानात् वाक्यं भिद्यत । क मन्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातु मिति निमित्ते कर्मान्तरमेत्र विधोयते । दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते, न कर्मान्तरम् । पूर्वदेवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् । चर्वर्थस्य चार्थप्राप्तेः । भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वा क्यान्तरप्राप्तन्तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते । त एडुलानिति त्वविवक्षितं हविरुभयत्ववत्तथा च ये मध्यमा इत्या दोनि वाक्यान्यपनीते पूर्ववद्देवतासम्बन्धे हविषस्तस्मिन्नेव क र्मणि अप्रत्यूषं देवतान्तरसम्बन्धं विधातुं शनुवन्ति । त था च द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानाद्देवतान्तरसम्बन्धेषि न कर्मान्तरकल्पना भवितुमर्हति । ततश्च समाप्नेपि । नै मित्तिकाधिकारे नित्याधिकारसिद्ध्यर्थं तान्येव पुनः कर्मा एयनुष्ठेयानि । न च दधनि चरुमिति चरु सप्तम्यर्थयोर्विधा नं तयोरप्यर्थप्राप्नत्वात् । प्रकृते दि कर्मणि तण्डुलपेषण प्रथनं पुरोडाशपाकादि दधिपयस च प्राप्तानि तत्राभ्युदयनि मित्ते दधियुक्तानाम्ययोयुक्तनाश्च तण्डुलानां विभजेदिति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९७&oldid=141632" इत्यस्माद् प्रतिप्राप्तम्