एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा. ३ व. २५]
[६१३]

पदानामसमवेतार्थत्वम्। आभिचारिके तु कर्मणि सर्वेषा मर्थ समवायइति किमेकपदसमवेतार्थता करिष्यति। न च सन्निधूपगुचीतासूपासनास मन्त्रमवस्थापयतीति युक्तम् । इदयपदस्यभिचारे ऽपि समवेतार्थस्येतरपदैकवाक्यतापन स्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः सन्निधिना चालयितुमशक्यत्वादेवं देवसवितः प्रसवयज्ञमित्यादेरपि य ज्ञप्रसवलिङ्गस्य यज्ञाङ्गत्वे सिद्धे जघन्यो विद्यासन्निधिः किं करिष्यति । एवमन्येषामपि श्वेताश्वइत्येवमादीन केषt चि लिब्रेन केषां चिच्छया केषां चित्प्रमणन्तरेण प्रकरणे नेति कस्मात्पुनः सन्निधिर्लिङ्गादिभिबध्यते इत्यत आह । “दुर्बलो दि सन्निधिर्भरिति । प्रथमतन्त्रगतोऽर्थः स्मर्यते । तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलय इति चिन्ता। अत्रोदाहरणम् अस्यैन्द्री ऋक् कदा चन स्तरीरसि नेन्द्र इत्यादिका। श्रुतिर्विनियोक्री ऐ न्द्या गार्हपत्यमुपतिष्ठतइति। अत्र च सामर्थलक्षणाक्षि ङ्गादिन्द्रे विनियोगः प्रतिभाति । श्रुतेश्च गार्चपत्यमिति द्वि तोयान गाईपत्यस्य शेषित्वं ऐन्जेति च तृतीयाश्रुनेरैन्द्या ऋचः शेषत्वमवगम्यते । यद्यपि गाईपर्यमिति द्वितीयाश्रुने राग्योदृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः । यद्यपि चैन्चेति च ढनीयाश्रुनेरैन्द्या इन्द्रं प्रति शेषत्वेनोपपत्तेरविरोधः । पदान्तरसम्बन्धे तु वाक्यस्यैव लिङ्गन विरोधो न तु क्षु तेः । तत्र च विपरीतं बलाबलम् । तथापि श्रुतिवाक्ययो रूपको व्यापारभेदाददोषः द्वितीयाद्नीयाश्रुती चि कारक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१६&oldid=141653" इत्यस्माद् प्रतिप्राप्तम्