माणलक्षण"मिति । यते ब्रह्मजिज्ञासां प्रतिज्ञाय तजशाप नाय परमात्मलक्षणं प्रणयति तावगच्छामः परमात्मजिज्ञासै वेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः। षष्ठीसमासपरियचे ऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, संबन्धमात्रं च शेष इति - ब्रह्मणे जिज्ञासेत्युक्त ब्रह्मसंबन्धिनी जिज्ञासेयुक्तं भवति । तथा च ब्रह्मखरूपप्रमाणयुक्तिसाधनप्रयेोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था(१) ब्रह्मजिज्ञास्या ऽवरुद्वा भवन्ति । साशा त्यारम्पर्यण च ब्रह्मसंबन्धात् । कर्मषष्ठयां तु ब्रह्मशब्दार्थ कर्म, स च खरूपमेवेति तत्प्रमाणादये नावरुध्येरन्, तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते ता न्प्रत्याच । “ब्रह्मण” इति । “कर्मणी'ति । अत्र हेतुमाह । "जिज्ञास्यति” । इच्छायाः प्रतिपत्त्यनुबन्धी ज्ञानं, ज्ञानस्य च ज्ञेयं ब्रह्म, न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जि ज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्(२) प्रयमं जिज्ञासा कर्मवापेक्षते, न तु संबन्धिमात्रम् । तदन्तरेणापि सति कर्म णि तन्निरूपणात् । नहि चन्द्रमसमादित्यं चेोपलभ्य कस्या यमिति संबन्ध्यन्वेषणा भवति । भवति तु शानमित्युक्त वि षयान्वेषणा क्रिविषयमिति । तस्मात्प्रथममपाशत्तत्वात् कम तयेव बह्म संबध्यते, न संबन्धितामात्रेण, तस्य जघन्यत्वा त । तथा च कर्मणि षष्ठीत्यर्थः । नन् सत्यं न जिज्ञा स्यमन्तरेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भवि
(१) 'ब्रह्मजिज्ञासार्था' इति १ । २ पुस्तकयोर्नास्ति ।
(२) प्रतिपत्त्यानुबन्ध्यात्-पा० १ । प्रतिपत्त्यनुबन्धित्वात-पा० २ । प्रतिप त्यनुबन्धात्-पा० 3 | ४ |