सर्पः सा रज्जुरिति । यथा विद्यायाः कर्माङ्गत्वे दर्शनमुप न्यस्तमेवमकर्माङ्गत्वे न दर्शनमुक्तम् । तत्र कर्माङ्गवदर्शनाना मन्यथासिद्विरुक्तता केवल विद्यादर्शनान तु नान्यथासिद्दिर सार्वत्रिकी व्याप्तिरप्यकीयविद्यापेक्षया तस्या एव प्रकृतत्वात् न त्वशेषापेक्षया । यथा सर्वे ब्राह्मण भोज्यन्तामिति नि मन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ।
विभगः शतवत् ॥ ११ ॥
सुगमम् । अविभागेपि न दोष इत्याच । “‘न चेदं सम न्वारम्भवचनमिति । संसारिविषया विद्या विहिता यथा कॅथविद्या प्रतिषिद्म च यथा सच्छाखाधिगमनलक्षण अ ध्ययनमात्रवत एव कर्मविधिर्न वपनिषदध्ययनवतः । एतदुक्तं भवति । यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते । यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिककारः कर्मसु नोपनिष दध्ययनवतः तदध्ययनस्य कर्मखनुपयोगादिति। अध्ययनमा त्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति । ‘नत्वेवं । सती”ति । स्वाभिप्रायमुद्घाटयन् समाधत्ते । “न वयमिति । उपनिषदध्ययनागेशं मात्र शुदणु नार्थबोधापेक्षमित्यर्थः ।
नाविशेषात् ॥ १३ ॥
कुर्वन्नेवेह कर्माणेत्यविद्यावद्विषयमित्यर्थः । विद्यावद्विषय त्वेपि अविरोधो विद्यास्तुत्यर्थत्वादित्याय ।