एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पॉ-४ .२]
[६८७]

लक्षणेन विभ्रमेण मलिनयति चित्तसत्वमधर्मनिबन्धनत्वाद् विधमाणाम् । अतः पाप्मनः प्रशये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्य संसारस्य तात्विकोमनित्याशुचिदुःख रूपतामप्रत्यूहं विनिश्चिनोति । ततो ऽस्मिन्ननभिरतिसंशं वै. राग्यमुपजायते । ततस्तज्जिहासा ऽस्योपावर्तते । ततो द्वा नोपायं पर्यषते । पयेषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शाखादाचार्यवचनाच्चोपश्रुत्य तज्जज्ञासतइति विविदिषोप द्वारमुखेनात्मज्ञानोत्पत्तावस्ति कर्मणामुपयोगः । विविदिषुः। खलु युक्त एकाग्रतया श्रवणमननं कर्तुमुत्सचते । ततोस्य तत्त्वमसीति वाक्यान्निर्विचिकित्सज्ञानमुत्पद्यते । न च नि विचिकितं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिका रो ऽस्ति । येन भावनायां वा भावनाकार्यं वा साक्षात्कारे कर्मणामुपयोगः । एतेन वृत्तिरूपसाक्षात्कारकार्ये ऽपवर्गे क र्मणामुपयोगो दूरनिरस्तो वेदितव्यः । तस्माद्यथैव शमद मादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीभि ताभिधानम् । विदुषस्तत्रानधिकारादित्युक्तम् । इष्टार्थेषु तु कर्मसु प्रतिषिद्वर्जमनधिकारैपि असक्तस्य स्वारसिकी प्रवृ त्तिरुपपद्यतएव । न चि तत्रान्वयव्यतिरेकसमधिगमनी यफले ऽस्ति विध्यपेश । अतश्च भान्त्या चेलैकिकं कर्म वैदिकं च तथास्तु तइ ति प्रलापः । शमदमादीनां तु वि द्योत्पादायोपात्तानामुपरिष्टादवस्थाभाव्यादनपेक्षितानाम प्यनुवृत्तिः । उपपादितं चैतदभिः प्रथमत्रइति नेद पुनः प्रत्याय्यते । तस्माद्विविदिक्षोपादद्धराश्रमकर्मणां वि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९०&oldid=141763" इत्यस्माद् प्रतिप्राप्तम्