मवतो प्रतीतिरिति सकृदेव तद्भवेन न वा घृतेनेत्यु क्तमित्यत आह । ‘यद्यपि च प्रतिपत्तव्य आत्मा निरंश" इति । निरंशोप्ययमपरोशेप्यात्मा (१) तत्तद्देवाद्यारोपव्युदा राभ्यामंशवानिवात्यन्तपरोशइव । ततच वाक्यार्थतया क्र मवत्प्रत्यय उपपद्यते । तत्किमियमेव वाक्यजनिता प्रतीति रात्मनि तथा च न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्या इत्यत आच । ‘तत्तु पूर्वरूपमेवात्मप्रतिपत्तेः साशात्कारव त्या”। एतदुक्तं भवति । वाक्यार्थश्रवणमननोत्तरकाला वि शेषणत्रयवती भावना ब्रह्मसाशाकाराय कल्पतइति वाक्या र्थप्रतीतिः साशास्कारस्य पूर्वरूपमिति । शङ्कते । ‘सत्वमे वमिति । समारोपो चि तत्त्वप्रत्ययेनापोद्यते न तत्त्वप्रत्ययः । दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यतइत्यबाधित त्वात्समीचीन इति बलवान्न शक्योपनेतुमित्यर्थः । निराक रोति । “न देयाद्यभिमानवदि"ति। नचि सर्वेषां सर्वदोत्प द्यतइत्येतावता (२) ताचिकत्वम् । देशत्माभिमानस्यापि स त्यत्वप्रसङ्गात्सोपि सर्वेषां सर्वदोत्पद्यते । उक्तं चास्य तत्रत त्रो(३)पपच्या बाधनमेवं दुःखित्वाद्यभिमानोपि । तथा नचि नित्यश्वबुद्()भावस्यात्मन उपजनापायधर्माणो दुःखशो कादय आत्मनो भवितुमर्चन्ति । नापि धर्मास्तेषांततो व्यन्तभिन्नानां तद्वर्मत्वानुपपत्तेः । नचि गैरश्वस्य धर्मः
(१) भवतीत्यधिकं ३ पुस्तके ।
(२) एतावतेति ३ पुस्तके नास्ति ।
(3) चाति-पा० 3 ।
(४) बुबैति ३ पुस्तके नास्ति ।