मुक्तिविरुहप्रत्ययोत्पादान्मुक्तिविद्यन्तृत्वमेवास्येत्यभ्युच्चयमान मत्रोक्तमिति ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
यद्यपि तत्त्वमसत्याद्याः मुनयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयोरपहतपाप्मत्वानपहतपाप्मत्वदि लक्षणविरुद्धधर्मसंसर्गेण नानात्वस्य विनिश्चयात् श्रुतेश्च त त्वमसीत्याद्यया मनो ब्रह्म अदित्यो ब्रह्मेत्यादिवत्प्रती कोपदेशपरतयाप्युपपत्तेः प्रतीकोपदेश एवायम्। न च यथा समारोपितं सर्पत्वमनूद्य रज्जुरुवं पुरोवर्तिनो द्रव्यस्य विधी यतएवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधी यतइति युक्तम् । युक्तं द्वि पुरोवर्तिनि द्रव्ये द्र।घीयमि सामान्यरूपेणछोचिते विशेषरूपेण (१Zचते विशेषान्तर समारोपणमिद तु प्रकाशत्मनो निर्विशेषसामान्यस्यापरा धीनप्रकाशस्य नागृहीतमस्ति कि चिट्रपमिति कस्य विशे यस्यागचे किं विशेषान्तरं ' समारोप्यताम् । तस्माब्रह्मणे जीवभावारोपासंभवाज्जीवो जीवो ब्रह्म च ब्रह्मति तत्त्व मसीति प्रतीकोपदेश एवेति प्राप्तमेवं प्राप्ने ऽभिधीयते । श्वेतकेतोरात्मैव परमेश्वरः प्रतिपत्तव्यो न त श्वेतकेतो व्यतिरिक्तः परमेश्वरः । भेदे हि गृणत्वापत्तिर्न च मुख्य संभवे गैौणत्वं युक्तम् । अपि च प्रतीकोपदेशे सकृद्वचनं
(१) विभेषेणत-पा० 3 ।।