एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[म.४ पा१ ल. २]
[७०९]

तु प्रतीयते भेददर्शननिन्दा च । अभ्यासे वि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् । तस्मात्यैौर्वाप र्यालोचनया श्रुतेस्तावज्जीवस्य परमात्मता वास्तवत्येतत्पर ता लक्ष्यते । न च मानान्तरविरोधादत्राप्रामाण्यं श्रुतेः । न च मानान्तराविरोध इत्यादि तु सर्वमुपपादितं प्रथमे ऽध्याये । निरंशस्यापि चानाद्यनिर्वाच्यविद्यानद्वासनासमा रोपितविविधप्रपञ्चात्मनः सशस्येव कस्य चिदंशस्याग्रदण द्विभमइव परमार्थस्तु न विधमो नाम कश्चिन्न च संसारो नाम किं तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिर्वचनीयः मिति युक्तमुपश्यामः । तदनेनाभिसंधिनोक्तम् । “‘यद्यवं प्रतिबुद्धोसि नास्ति कस्य चिदप्रतिबोध’ इति । अन्येप्याहुः। यद्यदैतेन तोषोस्ति युक्त एवासि सर्वदेति । अतिरोञ्चितार्थमन्यदिति ॥

न प्रतीकेन हि सः॥ ४ ॥

यथा दि शास्त्रक्तं उद्वमुक्तखभावं ब्रह्मात्मवेनैव जी वेनोपास्यते ऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु त त्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्त्विकत्वादद्वितीयत्वमि ति श्रुतेश्च । जीवात्मानश्च विद्यादर्पण ब्रह्मप्रतिबिम्बकाः । यथायथा यत्रयत्र मनो ब्रह्मादित्यो ब्रह्मत्यादिषु ब्रह्मदृष्टे रुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यम् । ‘ब्रह्मणे मुख्यमस्मत्वमिति । उपपन्नं च मनप्रभृतीनां ब्रह्माविकं रत्वेन तादात्म्यम् । घटशरावोदचनादीनामिव हृदिकारा ण हृदात्मकत्वम् । तथा च तादृशानां प्रतीकोपदेशानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१२&oldid=141785" इत्यस्माद् प्रतिप्राप्तम्